वांछित मन्त्र चुनें

य॒दा वज्रं॒ हिर॑ण्य॒मिदथा॒ रथं॒ हरी॒ यम॑स्य॒ वह॑तो॒ वि सू॒रिभि॑: । आ ति॑ष्ठति म॒घवा॒ सन॑श्रुत॒ इन्द्रो॒ वाज॑स्य दी॒र्घश्र॑वस॒स्पति॑: ॥

अंग्रेज़ी लिप्यंतरण

yadā vajraṁ hiraṇyam id athā rathaṁ harī yam asya vahato vi sūribhiḥ | ā tiṣṭhati maghavā sanaśruta indro vājasya dīrghaśravasas patiḥ ||

पद पाठ

य॒दा । वज्र॑म् । हिर॑ण्यम् । इत् । अथ॑ । रथ॑म् । हरी॒ इति॑ । यम् । अ॒स्य॒ । वह॑तः । वि । सू॒रिऽभिः॑ । आ । ति॒ष्ठ॒ति॒ । म॒घऽवा॑ । सन॑ऽश्रुतः । इन्द्रः॑ । वाज॑स्य । दी॒र्घऽश्र॑वसः । पतिः॑ ॥ १०.२३.३

ऋग्वेद » मण्डल:10» सूक्त:23» मन्त्र:3 | अष्टक:7» अध्याय:7» वर्ग:9» मन्त्र:3 | मण्डल:10» अनुवाक:2» मन्त्र:3


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यदा) जिस समय (इन्द्र) राजा-शासक (सूरिभिः) विद्वानों के द्वारा (वज्रं हिरण्यं यं रथम्-इत्) ओजोरूप सर्वहितरमणीय तथा स्वरमणीय जिस राष्ट्र-शासन पद पर (वि-आ तिष्ठति) विराजता है और स्वाधीन चलाता है, तब (अस्य हरी वहतः) इसके सभासेना विभाग राष्ट्र का वहन करते हैं। (मघवा) राजसूय यज्ञवाला-राजसूय को प्राप्त हुआ राजा (सनश्रुतः) परम्परा से प्रसिद्ध हुए (दीर्घश्रवसः) दीर्घकाल तक कीर्ति देनेवाले (वाजस्य) भोग ऐश्वर्य का पति स्वामी हो जाता है ॥३॥
भावार्थभाषाः - विद्वानों द्वारा राजा या शासक ओजस्वी सर्वहित-रमणीय तथा स्वरमणीय तथा राष्ट्र का वहन करते हैं, एवं परम्परा से प्रसिद्ध दीर्घकालीन कीर्तिवाले भोग-ऐश्वर्य का स्वामी राजा बनता है ॥३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यदा) यस्मिन् काले (इन्द्रः) राजा-शासकः (सूरिभिः) विद्वद्भिः सह (वज्रं हिरण्यं यं रथम्-इत्) ओजोरूपं सर्वहितरमणीयं स्वरमणीयं राष्ट्रं-राष्ट्रशासनस्थानं खलु (वि-आ तिष्ठति) विराजते स्वाधीने चालयति च तदा (अस्य हरी वहतः) सभासेनाविभागौ राष्ट्रं वहतः (मघवा) राजसूययज्ञवान् राजा “यज्ञेन मघवान्” [तै० सं० ४।४।८।१] (सनश्रुतः दीर्घश्रवसः-वाजस्य पतिः) परम्परातः प्रसिद्धस्य दीर्घकालकीर्त्तिप्रदस्य भौगेश्वर्यस्य पतिर्भवति ॥३॥